हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Ganapati Atharvashirsha Upanishat – श्री गणपत्यथर्वशीर्षोपनिषत्


ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं नम॑स्ते ग॒णप॑तये ।
त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ धर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १ ॥

ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २ ॥

अव॑ त्वं॒ माम् । अव॑ व॒क्तारम्᳚ ।
अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ ।
अव॑ धा॒तारम्᳚ । अवानूचानम॑व शि॒ष्यम् ।
अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् ।
अवोत्त॒रात्ता᳚त् । अव॑ दक्षि॒णात्ता᳚त् ।
अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३ ॥

त्वं वाङ्मय॑स्त्वं चिन्म॒यः ।
त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः ।
त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४ ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते ।
सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि लय॑मेष्य॒ति ।
सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः ।
त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५ ॥

त्वं गु॒णत्र॑याती॒तः ।
त्वमवस्थात्र॑याती॒तः ।
त्वं दे॒हत्र॑याती॒तः ।
त्वं का॒लत्र॑याती॒तः ।
त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् ।
त्वं शक्तित्र॑यात्म॒कः ।
त्वां योगिनो ध्याय॑न्ति नि॒त्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒: स्व॒रोम् ॥ ६ ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚स्तदन॒न्त॑रम् ।
अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् ।
गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् ।
नाद॑: सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः ।
निचृद्गाय॑त्रीच्छ॒न्दः ।
गणपति॑र्देव॒ता । ओं गं ग॒णप॑तये नमः ॥ ७ ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८ ॥

एकद॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒ धारि॑णम् ।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ लं॒बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् ।
रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।
आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते᳚: पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९ ॥

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये॒ नम॑: ॥ १० ॥

एतदथर्वशीर्षं॑ योऽधी॒ते ।
स ब्रह्मभूया॑य क॒ल्पते ।
स सर्वविघ्नै᳚र्न बा॒ध्यते ।
स सर्वत्र सुख॑मेध॒ते ।
स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति ।
सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति ।
धर्मार्थकाममोक्षं॑ च वि॒न्दति ।
इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।
यो यदि मो॑हाद्दा॒स्यति । स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं यं काम॑मधी॒ते ।
तं तमने॑न सा॒धयेत् ॥ ११ ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति ।
इत्यथर्व॑ण वा॒क्यम् ।
ब्रह्माद्या॒वर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२ ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वाञ्छित फलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमा सन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते ।
महाप्रत्यवाया᳚त् प्रमु॒च्यते ।
स सर्वविद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४ ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


Veda Suktas – वेद सूक्तानि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.